शनिवार, 20 सितंबर 2025
#स्वधास्तोत्रम"* *मंत्र*:-*।।ॐ ऐं सर्व पितृभ्यो स्वधा।।* _*ॐ देवताभ्य: पितृभ्यश्च महायोगिभ्य एव च।*_ _*नम: स्वाहायै स्वाधायै नित्यमेव नमो नम:।।*_ *"स्वधास्तोत्रम"**स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नर:।**मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत्।।1।।**स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत्।**श्राद्धस्य फलमाप्नोति कालस्य तर्पणस्य च।।2।।**श्राद्धकाले स्वधास्तोत्रं य: श्रृणोति समाहित:।**लभेच्छ्राद्धशतानां च पुण्यमेव न संशय:।।3।।**स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं य: पठेन्नर:।**प्रियां विनीतां स लभेत्साध्वीं पुत्रं गुणान्वितम्।।4।।**पितृणां प्राणतुल्या त्वं द्विजजीवनरूपिणी।**श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा।।5।।**बहिर्गच्छ मन्मनस: पितृणां तुष्टिहेतवे।**सम्प्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे।।6।।**नित्या त्वं नित्यस्वरूपासि गुणरूपासि सुव्रते।**आविर्भावस्तिरोभाव: सृष्टौ च प्रलये तव।।7।।**ॐ स्वस्तिश्च नम: स्वाहा स्वधा त्वं दक्षिणा तथा।**निरूपिताश्चतुर्वेदे षट् प्रशस्ताश्च कर्मिणाम्।।8।।**पुरासीस्त्वं स्वधागोपी गोलोके राधिकासखी।**धृतोरसि स्वधात्मानं कृतं तेन स्वधा स्मृता।।9।।**इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि।**तस्थौ च सहसा सद्य: स्वधा साविर्बभूव ह।।10।।**तदा पितृभ्य: प्रददौ तामेव कमलाननाम्।**तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिता:।।11।।**स्वधास्तोत्रमिदं पुण्यं य: श्रृणोति समाहित:।**स स्नात: सर्वतीर्थेषु वेदपाठफलं लभेत्।।12।।**।।इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे ब्रह्माकृतं स्वधास्तोत्रं सम्पूर्णम्।।*
सदस्यता लें
टिप्पणियाँ (Atom)