#स्वधास्तोत्रम"*
*मंत्र*:-*।।ॐ ऐं सर्व पितृभ्यो स्वधा।।*
_*ॐ देवताभ्य: पितृभ्यश्च महायोगिभ्य एव च।*_
_*नम: स्वाहायै स्वाधायै नित्यमेव नमो नम:।।*_
*"स्वधास्तोत्रम"*
*स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नर:।*
*मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत्।।1।।*
*स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत्।*
*श्राद्धस्य फलमाप्नोति कालस्य तर्पणस्य च।।2।।*
*श्राद्धकाले स्वधास्तोत्रं य: श्रृणोति समाहित:।*
*लभेच्छ्राद्धशतानां च पुण्यमेव न संशय:।।3।।*
*स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं य: पठेन्नर:।*
*प्रियां विनीतां स लभेत्साध्वीं पुत्रं गुणान्वितम्।।4।।*
*पितृणां प्राणतुल्या त्वं द्विजजीवनरूपिणी।*
*श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा।।5।।*
*बहिर्गच्छ मन्मनस: पितृणां तुष्टिहेतवे।*
*सम्प्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे।।6।।*
*नित्या त्वं नित्यस्वरूपासि गुणरूपासि सुव्रते।*
*आविर्भावस्तिरोभाव: सृष्टौ च प्रलये तव।।7।।*
*ॐ स्वस्तिश्च नम: स्वाहा स्वधा त्वं दक्षिणा तथा।*
*निरूपिताश्चतुर्वेदे षट् प्रशस्ताश्च कर्मिणाम्।।8।।*
*पुरासीस्त्वं स्वधागोपी गोलोके राधिकासखी।*
*धृतोरसि स्वधात्मानं कृतं तेन स्वधा स्मृता।।9।।*
*इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि।*
*तस्थौ च सहसा सद्य: स्वधा साविर्बभूव ह।।10।।*
*तदा पितृभ्य: प्रददौ तामेव कमलाननाम्।*
*तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिता:।।11।।*
*स्वधास्तोत्रमिदं पुण्यं य: श्रृणोति समाहित:।*
*स स्नात: सर्वतीर्थेषु वेदपाठफलं लभेत्।।12।।*
*।।इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे ब्रह्माकृतं स्वधास्तोत्रं सम्पूर्णम्।।*
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें